(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.8. अध्यायः 008
Mahabharata - Udyoga Parva - Chapter Topics
पाण्डवान्प्रत्यागच्छतः शल्यस्य मार्गे भ्रमाहुर्योधनसभाप्रवेशः ॥ 1 ॥
तद्भुत्यकृतोपचारतुष्टेन तेन पारितोषिकदाने प्रति श्रुते गूढेनसता दुर्योधनेन प्रकटीभूय साहाय्यवरणम् ॥ 2 ॥
पाण्डवानुपगम्य दुर्योधनवञ्चनां कथितवता शल्येन युधिष्ठिराभ्यर्थनया कर्णस्य सारथ्यकरणेन तेजोवधकरणप्रतिज्ञानम् ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text

वैशम्पायन उवाच। 5-8-0x(3345)(31865)
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः।
अभ्यात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥ 5-8-1(31866)
तस्य सेनानिवेशोऽभूदध्वर्धमिव योजनम् ।
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः ॥ 5-8-2(31867)
अक्षौहिणीपती राजन्महावीर्यपराक्रमाः।
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ॥ 5-8-3(31868)
विचित्राभरणाः सर्वे विचित्ररथवाहनाः ।
विचित्रस्रग्धराः सर्वे विवित्राम्बरभूषणाः ॥ 5-8-4(31869)
स्वदेशवेषाभरणा वीराः शतसहस्रशः।
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥ 5-8-5(31870)
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।
शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः ॥ 5-8-6(31871)
ततो दुर्योधनः श्रुत्वा महात्मानं महारथम् ।
उपायान्तमभिद्रुत्य स्वयमानर्च भरत ॥ 5-8-7(31872)
कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।
रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥ 5-8-8(31873)
शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः ।
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् ॥ 5-8-9(31874)
कूपाश्च विविधाकारा औदकानि गृहाणि च ॥
स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः । 5-8-10(31875)
दुर्योधनस्य सचिवैर्देशे देशे समन्ततः ॥
आजगाम सभामन्यां देवावसथवर्चसम् । 5-8-11(31876)
स तत्र विषयैर्युक्तैः कल्याणैरतिमानुषैः ॥
मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम्। 5-8-12(31877)
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ॥
युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः । 5-8-13(31878)
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥
प्रदेयमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम्। 5-8-15a` ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा'
दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः ॥ 5-8-14(31879)
संप्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् ।
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥ 5-8-16(31880)
तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम्।
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो ध्रियतामिति ॥ 5-8-17(31881)
दुर्योधन उवाच। 5-8-18x(3346)
सत्यवाग्भव कल्याण वरो वै मम दीयताम्।
सर्वसेनाप्रणेता वै भवान्भवितुमर्हति ॥ 5-8-18(31882)
यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम्।
अनुमान्यं च पाल्यं च भक्तं च भज मां विभो ॥ 5-8-19(31883)
वैशम्पायन उवाच। 5-8-20x(3347)
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति।
कृतमित्येव गान्धारिः प्रत्युवाच पुनःपुनः ॥ 5-8-20(31884)
शल्य उवाच। 5-8-21x(3348)
गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ ।
अहं गमिष्ये द्रुष्टुं वै युधिष्ठिरमरिंदमम् ॥ 5-8-21(31885)
दृष्ट्वा युधिष्ठिरं राजन्क्षिप्रमेष्ये नराधिप ।
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः ॥ 5-8-22(31886)
दुर्योधन उवाच। 5-8-23x(3349)
क्षिप्रामागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव ।
त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः ॥ 5-8-23(31887)
शल्य उवाच। 5-8-24x(3350)
क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप।
` दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे ॥ 5-8-24(31888)
वैशम्पायन उवाच। 5-8-25x(3351)
पर्यष्वजेतामन्योन्यं शल्यदुर्योधनावुभौ ॥ 5-8-25(31889)
स तथा शल्यमामन्त्र्य पुरायात्स्वकं पुरम्।
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ 5-8-26(31890)
उपप्लाव्यं स गत्वा तु स्कन्धावारं प्रविश्य च।
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥ 5-8-27(31891)
चिरात्तु दृष्ट्वा राजानं मातुलं समितिञ्जयम्।
आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः ॥ 5-8-28(31892)
तथा भीमार्जुनौ हृष्टौ स्वस्त्रीयौ च यमावुभौ ।
द्रौपदी च सुभद्रा च अभिमन्युश्च भारत ॥ 5-8-29(31893)
समेत्य च महापाहुं शल्यं पाण्डुसुतस्तदा ।
पाद्यमर्घ्यं च गां चैव प्रतिग्राह्य पुरोधसा ॥ 5-8-30(31894)
कताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत्।
स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम् ॥ 5-8-31(31895)
ततो न्यषीदच्छल्यश्च काञ्चने परमासने ।
तत्र पाद्यथार्घ्यं च न्यवेदयत पाण्डवः ॥ 5-8-32(31896)
शल्य उवाच। 5-8-33x(3352)
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै।
अवाप्स्यसि फलं राजन्हत्वा शत्रून्परन्तप ॥ 5-8-33(31897)
विदितं ते महाराज लोकतन्त्रं नराधिप ।
तस्माल्लोककृतं किञ्चित्तव तात न विद्यते ॥ 5-8-34(31898)
वैशम्पायन उवाच। 5-8-35x(3353)
निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत।
कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम् ॥ 5-8-35(31899)
स तैः परिवृतः सर्वैः पाण्डवैर्धर्मचारिभिः ।
आसने चोपविष्टः स शल्यः पार्थमथाब्रवीत् ॥ 5-8-36(31900)
शल्य उवाच। 5-8-37x(3354)
कुशलं राजशार्दूल सर्वत्र कुरुनन्दन ।
अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर ॥ 5-8-37(31901)
दुष्करं ते कृतं राजन्निर्जने गहने वने।
भ्रातृभिः सह कौन्तेय कृष्णाया चानयाऽनघ ॥ 5-8-38(31902)
अज्ञातवासं घोरं च वसता दुष्करं कृतम् ।
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥ 5-8-39(31903)
सत्ये तपसि दाने च तव बुद्धिर्युधिष्ठिर ।
क्षमा दमश्चाहिंसा च सत्यं चैव युधिष्ठिर ॥ 5-8-40(31904)
अद्भुतश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठितः।
मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः ॥ 5-8-41(31905)
धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः ।
सर्वं जगदिदं तात विदितं ते परन्तप ॥ 5-8-42(31906)
मुदितश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठिते ।
दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ ॥ 5-8-43(31907)
दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम्।
निस्तीर्णदुष्करं राजंस्त्वां धर्मनिचयं प्रभो ॥ 5-8-44(31908)
वैशम्पायन उवाच। 5-8-45x(3355)
ततोऽस्याकथयद्राजा दुर्योधनसमागमम्।
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥ 5-8-45(31909)
युधिष्ठिर उवाच। 5-8-46x(3356)
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥ 5-8-46(31910)
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ।
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम ॥ 5-8-47(31911)
मम त्ववेक्षया वीर शृणु विज्ञापयामि ते।
भवानिह महाराज वासुदेवसमो युधि ॥ 5-8-48(31912)
कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥ 5-8-49(31913)
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि।
तेजोवधश्च ते कार्यः सौतेरस्मञ्जयावह्नः ।
अकर्तव्यमपि ह्येतत्कर्मुमर्हसि मातुल ॥ 5-8-50(31914)
शल्य उवाच। 5-8-51x(3357)
श्रृणु पाण्डव भद्रं ते यद्ब्रवीषि महात्मनः ।
तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे ॥ 5-8-51(31915)
अहं तस्य भविष्यामि सङ्घ्रामे सारथिर्ध्रुवम्।
वासुदेवेन हि समं नित्यं मां सोऽभिमन्यतो ॥ 5-8-52(31916)
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः।
ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥ 5-8-53(31917)
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥ 5-8-54(31918)
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम्।
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥ 5-8-55(31919)
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह।
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥ 5-8-56(31920)
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते।
द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम् ॥ 5-8-57(31921)
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति।
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥ 5-8-58(31922)
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर।
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥ 5-8-59(31923)
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना ।
अनुभूतं महद्दुःखं देवराजेन भारत ॥ ॥ 5-8-60(31924)

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि अष्टमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-8-27 उपप्लाव्यं विराटनगरस्य प्रदेशविशेषम्। स्कन्धावारं सेनानिवेशस्थानम् ॥ 5-8-53 प्रतीपं प्रसङ्गप्रतिकूलम् । अहितं परिणामविरुद्धम् ॥ 5-8-58 मन्युर्दैन्यम् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.